|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.218. अध्यायः 218
Mahabharata - Adi Parva - Chapter Topics
पाण्डवा हन्तव्या एवेति कर्णस्योक्तिः॥ 1 ॥ पाञ्चालनगरंप्रति युद्धार्थं दुर्योधनादीनां गमनम्॥ 2 ॥ तैः सह योद्धुं सपाण्डवस्य द्रुपदस्यागमनम्॥ 3 ॥ कर्णजयद्रथाभ्यां सुमित्रप्रियदर्शनयोर्वधः॥ 4 ॥ अर्जुनेन कर्णजयद्रथपुत्रयोर्वधः॥ 5 ॥ कर्णदुर्योधनादीनां पराजयः॥ 6 ॥ पराजितानां तेषां हास्तिनपुरगमनम्॥ 7 ॥ कृष्णबलरामयोः पाञ्चालपुरे वासः॥ 8 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-218-0x(1211)(9492)
सौमदत्तेर्वचः श्रुत्वा कर्णो वैकर्तनो वृषा।
उवाच वचनं काले कालज्ञः सर्वकर्मणाम्॥ 1-218-1(9493)
नीतिपूर्वमिदं सर्वमुक्तं वचनमर्थवत्।
वचनं नाभ्यसूयामि श्रूयतां यद्वचस्त्विति॥ 1-218-2(9494)
द्वैधीभावो न गन्तव्यः सर्वकर्मसु मानवैः।
द्विधाभूतेन मनसा अन्यत्कर्म न सिध्यति॥ 1-218-3(9495)
संप्रयाणासनाभ्यां तु कर्शनेन तथैव च।
नैतच्छक्यं पुरं हर्तुमाक्रन्दश्चाप्यशोभनः॥ 1-218-4(9496)
अवमर्दनकालोऽत्र मतश्चिन्तयतो मम।
यावन्नो वृष्णयः पार्ष्णिं न गृह्णन्तिरणप्रियाः॥ 1-218-5(9497)
भवन्तश्च तथा हृष्टाः स्वबाहुबलशालिनः।
प्राकारमवमृद्रन्तु परिघाः पूरयन्त्वपि॥ 1-218-6(9498)
प्रस्रावयन्तु सलिलं क्रियतां विषमं समम्।
तृणकाष्ठेन महता खातमस्य प्रपूर्यताम्॥ 1-218-7(9499)
घुष्यतां राजमार्गेषु परेषां यो हनिष्यति।
नागमश्वं पदातिं वा दानमानं स लप्स्यति॥ 1-218-8(9500)
नागे दशसहस्राणि पञ्च चाश्वपदातिषु।
रथे वै द्विगुणं नागाद्वसु दास्यन्ति पार्थिवाः॥ 1-218-9(9501)
यश्च कामसुखे सक्तो बालश्च स्थविरश्च यः।
अयुद्धमनसो ये च ते तु तिष्ठन्तु भीरवः॥ 1-218-10(9502)
प्रदरश्च न दातव्यो न गन्तव्यमचोदितैः।
यशो रक्षत भद्रं वो जेष्यामो वै रिपून्वयम्॥ 1-218-11(9503)
अनुलोमाश्च नो वाताः सततं मृगपक्षिणः।
अग्नयश्च विराजन्ते शस्त्राणि कवचानि च॥ 1-218-12(9504)
वैशम्पायन उवाच। 1-218-13x(1212)
ततः कर्णवचः श्रुत्वा धार्तराष्ट्रप्रियैषिणः।
निर्ययुः पृथिवीपालाश्चालयन्तः परान्रणे॥ 1-218-13(9505)
न हि तेषां मनःसक्तिरिन्द्रियार्थेषु सर्वशः।
यथा परिरपुघ्नानां प्रसभं युद्ध एव च॥ 1-218-14(9506)
वैकर्तनपुरोव्रातः सैन्धवोर्मिमहास्वनः।
दुःशासनमहामत्स्यो दुर्योधनमहाग्रहः॥ 1-218-15(9507)
स राजसागरो भीमो भीमघोषप्रदर्शनः।
अभिदुद्राव वेगेन पुरं तदपसव्यतः॥ 1-218-16(9508)
तदनीकमनाधृष्यं शस्त्राग्निव्यालदीपितम्।
समुत्कम्पितमाज्ञाय चुक्रुशुर्द्रुपदात्मजाः॥ 1-218-17(9509)
ते मेघसमनिर्घोषैर्बलिनः स्यन्दनोत्तमैः।
निर्ययुर्नगरद्वारात्त्रासयन्तः परान्र 1-218-18(9510)
धृष्टद्युम्नः शिखण्डी च सुमित्रः प्रियदर्शनः।
चित्रकेतुः सुकेतुश्च ध्वजकेतुश्च वीर्यवान्॥ 1-218-19(9511)
पुत्रा द्रुपदराजस्य बलवन्तो जयैषिणः।
द्रुपदस्य महावीर्यः पाण्डरोष्णीषकेतनः॥ 1-218-20(9512)
पाण्डरव्यजनच्छत्रः पाण्डरध्वजवाहनः।
स पुत्रगणमध्यस्थः शुशुभे राजसत्तमः॥ 1-218-21(9513)
चन्द्रमा ज्योतिषां मध्ये पौर्णमास्यामिवोदितः।
अथोद्धूतपताकाग्रमजिह्मगतिमव्ययम्॥ 1-218-22(9514)
द्रुपदानीकमायान्तं कुरुसैन्यमभिद्रवत्।
तयोरुभयतो जज्ञे तेषां तु तुमुलः स्वनः॥ 1-218-23(9515)
बलयोः संप्रसरतोः सरितां स्रोतसोरिव।
प्रकीर्णरथनागाश्वैस्तान्यनीकानि सर्वशः॥ 1-218-24(9516)
ज्योतींषईव प्रकीर्णानि सर्वतः प्रचकाशिरे।
उत्कृष्टभेरीनिनदे संप्रवृत्ते महारवे॥ 1-218-25(9517)
अमर्षिता महात्मानः पाण्डवा निर्ययुस्ततः।
रथांश्च मेघनिर्घोषान्युक्तान्परमवाजिभिः॥ 1-218-26(9518)
धून्वन्तो ध्वजिनः शुभ्रानास्थाय भरतर्षभाः।
ततः पाण्डुसुतान्दृष्ट्वा रथस्थानात्तकार्मुकान्॥ 1-218-27(9519)
नृपाणामभवत्कम्पो वेपथुर्हृदयेषु च।
निर्यातेष्वथ पार्थेषु द्रोपदं तद्बलं रणे॥ 1-218-28(9520)
आविशत्परमो हर्षः प्रमोदश्च जयं प्रति।
सुमुहूर्तं व्यतिकरः सैन्यानामभवद्भृशम्॥ 1-218-29(9521)
ततो द्वन्द्वमयुध्यन्त मृत्युं कृत्वा पुरस्कृतम्।
जघ्नतुः समरे तस्मिन्सुमित्रप्रियदर्शनौ॥ 1-218-30(9522)
जयद्रथश्च कर्णश्च पश्यतः सव्यसाचिनः।
अर्जुनः प्रेक्ष्य निहतौ सौमित्रप्रियदर्शनौ॥ 1-218-31(9523)
जयद्रथसुतं तत्र जघान पितुरन्तिके।
वृषसेनादवरजं सुदामानं धनंजयः॥ 1-218-32(9524)
कर्णपुत्रं महेष्वासं रथनीडादपातयत्।
तौ सुतौ निहतौ दृष्ट्वा राजसिंहौ तरस्विनौ॥ 1-218-33(9525)
नामृष्येतां महाबाहू प्रहारमिव सद्गजौ।
तौ जग्मतुरसंभ्रान्तौ फल्गुनस्य रथंप्रति॥ 1-218-34(9526)
प्रतिमुक्ततलत्राणौ शपमानौ परस्परम्।
सन्निपातस्तयोरासीदतिघोरो महामृधे॥ 1-218-35(9527)
वृत्रशम्बरयोः सङ्क्ये वज्रिणेव महारणे।
त्रीनश्वाञ्जघ्नतुस्तस्य फल्गुनस्य नर्षभौ॥ 1-218-36(9528)
ततः किलिकिलाशब्दः कुरूणामभवत्तदा।
तान्हयान्निहतान्दृष्ट्वा भीमसेनः प्रतापवान्॥ 1-218-37(9529)
निमेषान्तरमात्रेण रथमश्वैरयोजयत्।
उपयातं रथं दृष्ट्वा दुर्योधनपुरःसरौ॥ 1-218-38(9530)
सौबलः सौमदत्तिश्च समेयातां परन्तपौ।
तैः पञ्चभिरदीनात्मा भीमसेनो महाबलः॥ 1-218-39(9531)
अयुध्यत तदा वीरैरिन्द्रियार्थैरिवेश्वरः।
तैर्निरुद्धो न संत्रासं जगाम समितिंजयः॥ 1-218-40(9532)
पञ्चभिर्द्विरदैर्मत्तैर्निरुद्ध इव केसरी।
तस्यैते युगपत्पञ्च पञ्चभिर्निशितैः शरैः॥ 1-218-41(9533)
सारथिं वाजिनश्चैव निन्युर्वैवस्वतक्षयम्।
हताश्वात्स्यन्दनश्रेष्ठादवरुह्य महारथः॥ 1-218-42(9534)
चचार विविधान्मार्गानसिमुद्यम्य पाण्डवः।
अश्वस्कन्धेषु चक्रेषु युगेष्वीषासु चैव हि॥ 1-218-43(9535)
व्यचरत्पातयञ्शत्रून्सुपर्ण इव भोगिनः।
विधनुष्कं विकवचं विरथं च समीक्ष्य तम्॥ 1-218-44(9536)
अभिपेतुर्नव्याघ्रा अर्जुनप्रमुखा रथाः।
धृष्टद्युम्नः शिखण्डी च यमौ च युधि दुर्जयौ॥ 1-218-45(9537)
तस्मिन्महारथे युद्धे प्रवृत्ते शरवृष्टिभिः।
रथध्वजपताकाश्च सवर्मन्तरधीयत॥ 1-218-46(9538)
तत्प्रवृत्तं चिरं कालं युद्धं सममिवाभवत्।
रथेन तान्महाबाहुरर्जुनो व्यधमत्पुनः॥ 1-218-47(9539)
तमापतन्तं दृष्ट्वेव महाबाहुर्धनुर्धरः।
कर्णोऽस्त्रविदुषां श्रेष्ठो वारयामास सायकैः॥ 1-218-48(9540)
स तेनाभिहतः पार्थो वासविर्वज्रसन्निभान्।
त्रीञ्शरान्संदधे क्रुद्धो वधात्क्रुद्धस्य पाण्डवः॥ 1-218-49(9541)
तैः शरैराहतं कर्णं ध्वजयष्टिमुपाश्रितम्।
अपोवाह रथाच्चाशु सूतः परपुरंजयम्॥ 1-218-50(9542)
ततः पराजिते कर्णे धार्तराष्ट्रान्महाभयम्।
विवेश समुदग्रांश्च पाण्डवान्प्रसमीक्ष्य तु॥ 1-218-51(9543)
तत्प्रकम्पितमत्यर्थं तद्दृष्ट्वा सौबलो बलम्।
गिरा मधुरया चापि समाश्वासयतासकृत्॥ 1-218-52(9544)
धार्तराष्ट्रैस्ततः सर्वैर्दुर्योधनपुरःसरैः।
धृतं तत्पुनरेवासीद्बलं पार्थप्रपीडितम्॥ 1-218-53(9545)
ततो दुर्योधनं दृष्ट्वा भीमो भीमपराक्रमः।
अक्रुध्यत्स महाबाहुरगारं जातुषं स्मरन्॥ 1-218-54(9546)
ततः संग्रामशिरसि ददर्श विपुलद्रुमम्।
आयामभूतं तिष्ठन्तं स्कन्धपञ्चाशदुन्नतम्॥ 1-218-55(9547)
महास्कन्धं महोत्सेधं शक्रध्वजमिवोच्छ्रितम्।
तमुत्पाठ्य च पाणिभ्यामुद्यम्य चरणावपि॥ 1-218-56(9548)
अभिपेदे परान्सङ्ख्ये वज्रपाणिरिवासुरान्।
भीमसेनभयार्तानि फल्गुनाभिहतानि च॥ 1-218-57(9549)
न शेकुस्तान्यनीकानि धार्तराष्ट्राण्युदीक्षितुम्।
तानि संभ्रान्तयोधानि श्रान्तवाजिगजानि च॥ 1-218-58(9550)
दिशः प्राकालयद्भीमो दिवीवाभ्राणि मारुतः।
तान्निवृत्तान्निरानन्दान्नरवारणवाजिनः॥ 1-218-59(9551)
नानुसस्रुर्न चाजघ्नुर्नोचुः किंचिच्च दारुणम्।
स्वमेव शिबिरं जग्मुः क्षत्रियाः शरविक्षताः॥ 1-218-60(9552)
परेऽप्यभिययुर्हृष्टाः पुरं पौरसुखावहाः।
मुहूर्तमभवद्युद्धं तेषां वै पाण्डवैः सह॥ 1-218-61(9553)
यावत्तद्युद्धमभवन्महद्देवासुरोपमम्।
तावदेवाभवच्छान्तं निवृत्ता वै महारथाः॥ 1-218-62(9554)
सुव्रतं चक्रिरे सर्वे सुवृतामब्रुवन्वधूम्।
कृतार्थं द्रुपदं चोचुर्धृष्टद्युम्नं च पार्षतम्॥ 1-218-63(9555)
शकुनिः सिन्धुराजश्च कर्णदुर्योधनावपि।
तेषां तदाभवद्दुःखं हृदि वाचा तु नाब्रुवन्॥ 1-218-64(9556)
ततः प्रयाता राजानः सर्व एव यथागतम्।
धार्तराष्ट्रा हि ते सर्वे गता नागपुरं तदा॥ 1-218-65(9557)
प्रागेव पूर्निरोधात्तु पाण्डवैरश्वसादिनः।
प्रेषिता गच्छतारिष्टानस्मानाख्यात शौरये॥ 1-218-66(9558)
तेऽचिरेणैव कालेन संप्राप्ता यादवीं पुरीम्।
ऊचुः संकर्षणोपेन्द्रौ वचनं वचनक्षमौ॥ 1-218-67(9559)
कुशलं पाण्डवाः सर्वानाहुः स्मान्धकवृष्णयः।
आत्मनश्चाहतानाहुर्विमुक्ताञ्जातुषाद्गृहात्॥ 1-218-68(9560)
समाजे द्रौपदीं लब्धामाहू राजीवलोचनाम्।
आत्मनः सदृशीं सर्वैः शीलवृत्तसमाधिभिः॥ 1-218-69(9561)
तच्छ्रुत्वा वचनं कृष्णस्तानुवाचोत्तरं वचः।
सर्वमेतदहं जाने वधात्तस्य तु रक्षसः॥ 1-218-70(9562)
तत उद्योजयामास माधवश्चतुरङ्गिणीम्।
सेनामुपानयत्तूर्णं पाञ्चालनगरीं प्रति॥ 1-218-71(9563)
ततः संकर्षणश्चैव केशवश्च महाबलः।
यादवैः सह सर्वैश्च पाण्डवानभिजग्मतुः॥ 1-218-72(9564)
पितृष्वसारं संपूज्य नत्वा चैव तु यादवीम्।
द्रौपदीं भूषणैः शुभ्रैर्भूषयित्वा यथाविधि॥ 1-218-73(9565)
पाण्डवान्हर्षयित्वा तु पूजयामासतुश्च तान्।
न्यायतः पूजितौ राज्ञा द्रुपदेन महात्मना॥ 1-218-74(9566)
यादवाः पूजिताः सर्वे पाण्डवैश्च महात्मभिः।
रेमिरे पाण्डवैः सार्धं ते पाञ्चालपुरे तदा॥ ॥ 1-218-75(9567)
इति श्रीमन्माहाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि अष्टादशाधिकद्विशततमोऽध्यायः॥ 218 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|